Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

चीनदेशस्य उत्तरी-शांसी-प्रान्ते स्थितायाम् एकस्यां अङ्गारखनौ (Coal Mine) शुक्रवासरे रात्रौ एकः प्रचण्डः वायु-विस्फोटः । अस्यां दारुण-दुर्घटनायाम् अधुना यावत् द्व्यशीतिः (८२) श्रमिकाणां दुःखदः मृत्युः अभवत्, नव (९) श्रमिकाः च अद्यापि अदृष्टा: सन्ति। विगते दशके इयं चीन-देशस्य सर्वतोगम्भीरा खनि-दुर्घटना मन्यते।

१. यदा अयं भीषणः विस्फोट: जातः, तदा खनेः अन्तः आहत्य सप्तचत्वारिंशद्-अधिक-शतद्वयं (२४७) श्रमिकाः कार्यं कुर्वन्तः आसन्। विस्फोटस्य तीव्रता कारणात् श्रमिकाणां बहिरागमनस्य अवसरः एव न प्राप्तः। तथापि, रक्षा-दलेन द्विशताधिक-श्रमिकाः सुरक्षिताः बहिः निष्कासिताः।

२. अस्याः दुर्घटनायाः अनन्तरं चीन-देशस्य राष्ट्रपतिः शी-जिनपिंगः प्रधानमन्त्री ली-कियांगः च त्वरित-कार्याचरणं कृतवन्तौ। राष्ट्रपतिना व्रणितानां चिकित्सा-कार्ये तथा च अदृष्ट-जनानाम् अन्वेषणे सर्वविध-प्रयासान् कर्तुम् आदिष्टम्। तेन दुर्घटनायाः कारणं ज्ञातुं आदेशः अपि दत्तः।

३. अस्याम् गम्भीरायां प्रमत्ततायां खनि-कम्पनी-प्रबन्धकाः अधिकारिणः च आरक्षकेण निग्रहीता: । सम्प्रति घटना-स्थले युद्ध-स्तरे रक्षण-कार्यं प्रचलति।

अद्यतनवार्ता

भारतम्

विश्वम्