Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य मुख्यन्यायाधीशः बी.आर.गवई रविवासरे अवदत् यत् सः अद्यापि अस्य विचारस्य समर्थनं करोति यत् अनुसूचितजातीयानां (SC) आरक्षणे ‘क्रीमी लेयर’ अर्थात् ये सामाजिक-आर्थिकदृष्ट्या उन्नताः सन्ति, ते सूचित: बहि: करणीया: इति। आन्ध्रप्रदेशस्य राजधानी अमरावतीनगरे 'इंडिया एंड द लिविंग इंडियन कॉन्स्टिट्यूशन ऐट 75 इयर्स'  इति कार्यक्रमे वदन् सः अवदत् यत् आईएएस-अधिकारिणां, निर्धनकृषकस्य च बालकान् एकस्मिन् स्तरे स्थापयितुं न शक्यन्ते। सः अवदत् यत् आरक्षणस्य लाभं ते स्वीकुर्यु: येषां कृते तस्य आवश्यकता वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्