उत्तरप्रदेशस्य नोएडाक्षेत्रे निर्मितात् जेवर-अन्ताराष्ट्रिय-विमानपत्तनात् सोमवासरे (१५ जून् २०२६) प्रथमस्य विशिष्टस्य विमानस्य उड्डयनं जातम्। अस्मिन् विमाने ते एव कृषकाः यात्रिणः आसन्, यैः विमानपत्तनस्य निर्माणाय स्वभूमिः समर्पिता। २८ महिलाभिः सह १७० कृषकाः जेवरतः राजधानीं लखनऊं प्राप्ता:, यत्र मुख्यमन्त्रि-आवासे तेषां भव्यं स्वागतं सम्मानं च अभवत्। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् इदं विमानपत्तनं कृषकाणां भाग्यपरिवर्तनं करिष्यति। सः इण्डिगो-विमानसंस्थां प्रति अपि धन्यवादं व्याहरत्। कृषकाः मुख्यमन्त्रिणे स्मृतिचिह्नं प्रदाय स्वस्य कृतज्ञतां प्रकटितवन्तः।





















