प्रायेण मासाभ्यन्तरेण 'नीट्'-परीक्षायाः प्रश्नपत्र-प्रकटन-प्रकरणे जन्तरमन्तरस्थले आन्दोलनरतं 'कोकरोच-जनता-पार्टी'-दलम् अद्य आन्दोलनस्य परिसमाप्तिम् उद्घोषितवत्। सर्वकारस्य प्रतिनिधि-मन्त्रिभिः सह सम्भाषणानन्तरम् आयोजितायां वार्ताहर-गोष्ठ्याम् सी.जे.पी.-दलस्य वक्तृभ्यां सौरभदासेन आशुतोषराङ्केण च केन्द्रीयमन्त्रिणोः जे.पी. नड्डा-जितेन्द्रसिंहयोः उपस्थितौ आन्दोलनसमापनस्य घोषणा कृता। ताभ्याम् उक्तं यत् सर्वकारेण अस्माकं तिस्रः अपि याचनाः अङ्गीकृताः इति।





















