NEET-परीक्षायाः प्रश्नपत्र-प्रकटन-विवादे विरोधं कुर्वत्या ‘कोकरोच जनता पार्टी’ (CJP) इति आभासीयसंस्थाया: केन्द्रसर्वकारस्य च मध्ये सम्भाषणाय गतिरोधः तथैव वर्तते। एकतः सर्वकारः अस्य विवादस्य समाधानाय चर्चायाः कृते प्रार्थनां करोति, अपरतः CJP-दलेन शुक्रवासरे देशव्यापी-प्रदर्शनस्य घोषणा कृता। अत्र कदाचित् प्रश्न: अपि भवति यत् आन्दोलनकारिण: समाधानमिच्छन्ति उत आन्दोलनं सततं चालयितुमिच्छन्ति !!!
CJP-दलस्य नेता आशुतोषराङ्का स्पष्टीकृतवान् यत् केन्द्रीय-स्वास्थ्यमन्त्रिणः जे.पी. नड्डा-वर्यस्य गृहे मन्त्रालये वा कापि उपवेशन-गोष्ठी न भविष्यति। तेन सामाजिकमाध्यमे (X) लिखितं यत् – "कापि गोष्ठी नड्डामहोदयस्य गृहे न भविष्यति। उपवेशनं जन्तर-मन्तर-स्थाने वा कस्मिंश्चित् तटस्थस्थले एव भवितुमर्हति। अस्मिन् अवसरे केवलं नाममात्रं सम्भाषणं न चेलिष्यति। सर्वकारेण अस्माकं याचनासु दृढसम्भाषणं विधातुं निश्चित-समयावधिः दातव्या।”
इतः पूर्वं केन्द्रीयमन्त्री जितेन्द्रसिंहः उक्तवान् यत् सर्वकारेण CJP-दलेन सह चर्चां कर्तुं चत्वारः औपचारिक-प्रस्तावाः प्रेषिताः। सर्वकारः तै: सह सम्भाषणाय सर्वदा तत्परः अस्ति। मन्त्रिणः अनुसारं वार्ता जे.પી. नड्डामहोदयस्य कार्यालये गृहे वा भवितुं शक्नोति, सर्वकारश्च स्थानमधिकृत्य किमपि प्रतिष्ठाप्रश्नं न करोति। स्वास्थ्यमन्त्री जे.पी. नड्डा अपि चर्चायाः कृते उत्सुकतां दर्शयन् अवदत् – "वयम् उद्यताः स्मः, अस्मद्गृहे अधिकृतकार्यालये वा आगच्छन्तु।" तथापि उभयोः पक्षयोः हठधर्मी-वृत्त्या वार्तायाः निर्णयः गूढः एवास्ति।





















