Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

असमस्य श्रीभूमिमण्डले कोङ्ग्रेस-कार्यक्रमे ज्येष्ठनेत्रा स्वभाषणारम्भे बाङ्गलादेशस्य राष्ट्रगीतं  गीतं तेन विवादः उत्पन्नः अस्ति। वस्तुत: वरिष्ठः काङ्ग्रेसनेता बिधुभूषणदासः एकस्यां सभायां बाङ्गलादेशस्य राष्ट्रगीतं "अमर सोनार बाङ्गला, अमी तोमय भालोबाशी" गीतवान् इति कथ्यते। एतेन अपरपक्षै: काङ्ग्रेस-पक्षस्य घोर-आलोचना कृता अस्ति। भाजपद्वारा काङ्ग्रेसपक्षाय "बाङ्गलादेशप्रेमी" इति संज्ञानं दत्तम्। कतिपयदिनेभ्य: पूर्वं बाङ्ग्लादेशेन भारतस्य पूर्वोत्तरियराज्यानां समावेश: स्वस्य मानचित्रे कृत्वा विवाद: उत्पादित: आसीत्। एतस्यां परिस्थितौ एतादृशानां नेतॄणां बाङ्ग्लादेशस्नेह: नितराम् आश्चर्यजनकं प्रश्नवाचकं च। राजनीति: किं किं कारयति !!!

अद्यतनवार्ता

भारतम्

विश्वम्