Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आपत्काले भारतीयाः देश-धर्म-भाषा: न पश्यन्ति भेदं च न कुर्वन्ति इति भारतस्य संस्कृतिः संस्कारः च ।
वर्तमान-वैश्विक-जनपदोध्वंसे अबुधाबीस्थितेन बी.ए.पी.एस.-हिन्दुमन्दिरद्वारा अद्वितीयं सत्कार्यं क्रियते । मुस्लिमदेशे हिन्दुमन्दिरद्वारा जायमानम् इदं कार्यं  मानवीयसौहार्दस्य अद्भूतम् उदाहरणमस्ति ।

संस्थायाः वरिष्ठेन पूज्यब्रह्मविहारीदासस्वामिना उक्तं यत् ब्रह्मस्वरूपाणां परमपूज्यानां प्रमुखस्वामिनां आशीर्वादैः परमपूज्यानां महंतस्वामिनां प्रेरणया च समग्रे विश्वे संस्थासञ्चालितैः मन्दिरैः कोविद-१९ इति वैश्विक-जनपदोध्वंसे अबुधाबीप्रदेशेऽपि नि:स्वार्थभावनया सहायता क्रियते । विगतेषु चतुर्दश-दिवसेषु  एकादशसहस्राधिकानां जनानां भोजनव्यवस्था, नैकानाम् आवासव्यवस्था, औषधादिनां व्यवस्था च संस्थाद्वारा अभवत् ।

तेनोक्तं यत् यु.ए.इ. सर्वकारेण सह मिलित्वा सर्वकारस्य 'Together We are Good' इति कार्यक्रमान्तर्गतं एकादशसहस्रं यु.ए.इ. दीरहामपरिमितं धनदानं कृतमस्ति । एतेन सह रक्तदानस्य मुखावरणवितरणस्य अपि आयोजनम् अभवत् अस्ति । न केवलं भौतिकवस्तूनां अपि तु ५०० परिवारैः सह मन्त्रणां कृत्वा मनोबलवर्धनमपि कृतमस्ति । एतेन कार्येण प्रभावितः सर्वकारः संस्थायै 'Certificate Of Appreciation' गुणज्ञता-प्रमाणपत्रम् अपि अयच्छत् ।

अद्यतनवार्ता

भारतम्

विश्वम्