मोन्था इति तीव्रः चक्रवातः अधुना तीव्रः भूत्वा स्थलप्रवेशं कर्तुं आरभत। जलवायुविभागस्य नवीनतमपूर्वसूचनानुसारं काकिनाडासमीपे मछलीपट्टनम-कलिंगपट्टनमयोः मध्ये ९०-१०० कि.मी. वायुवेगेन चक्रवात: प्रविष्ट: अस्ति यस्य वेगः ११० कि.मी.पर्यन्तं गन्तुं शक्नोति। अस्य प्रभावः आन्ध्रप्रदेशस्य (विशेषतः काकिनाडा, कोन्सिमा, पश्चिमगोदावरी) दक्षिणओडिशा-मण्डलेषु च भवितुम् अर्हति अस्य कृते रेड अलर्ट् इति रक्तसचेतना उद्घोषिता अस्ति। जनान् सुरक्षितस्थानेषु स्थानान्तरयितुं बृहत्कार्यं प्रचलति। एनडीआरएफगना: पूर्वमेव नियोजिता: सन्ति। चक्रवातस्य वर्धमानं प्रभावं दृष्ट्वा आन्ध्रप्रदेशसर्वकारेण मङ्गलवासरे रात्रौ सप्तजनपदेषु वाहनस्य आवागमनस्य पूर्णप्रतिबन्धस्य आदेशः दत्तः। राज्यसर्वकारेण बुधवासरे रात्रौ ८:३० वादनतः प्रातः ६:०० वादनपर्यन्तं रात्रौ निषेधाज्ञा कृता अस्ति।





















