गोवानगरे एकस्मिन् प्रमुखे अभियाने मादकद्रव्यनियन्त्रणब्यूरो (NCB) इत्यनेन पलायितस्य अपराधिन: दाऊद-इब्राहिमस्य निकटतमसहायकस्य, मादकद्रव्यजालस्य मुख्य: च दानिशचिकाना मर्चन्ट् गृहीत:। अधिकारिणां मते दानिशः दीर्घकालं यावत् पलायितः आसीत्, दाऊदसंबन्धितं मादकद्रव्यव्यापारं च सम्पादयति स्म। एनसीबी इत्यनेन दानिशः अन्ये च त्रयः जना: अपि गृहीताः, १.३४१ किलोग्रामं मेफेड्रोन् (एमडी) च तेभ्य: प्राप्तम्।





















