Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

झारखण्डराज्यस्य गिरिडीहमण्डले महाविषाणां वनवरटीनां प्रकोपेन जनाः अतीव भीताः सन्ति। गतेषु पञ्चविंशति-दिनेषु एतासां दंशनेन पञ्च जनाः पञ्चत्वं गताः, द्विशताधिकाः च आतुराः जाताः। एताः कीटाः आकारेण दीर्घाः, पीत-कृष्णवर्णाः, अतीव दंशकाश्च सन्ति। दंशमात्रेण शरीरे प्रबलो दाहः, शोथः, श्वासकृच्छ्रं च जायते। षष्ट्यधिकाः रुग्णाः इदानीं चिकित्सालयेषु उपचारं लभन्ते। वनविभागेन विपत्प्रबन्धनदलेन च सह मिलित्वा एतासां नीडान् अपाकर्तुं प्रयत्नाः क्रियन्ते, ग्रामीणानां रक्षणाय उपायाश्च उपदिष्टाः।

अद्यतनवार्ता

भारतम्

विश्वम्