बाङ्ग्लादेशस्य सांप्रतिकी स्थितिः अत्यन्तं चिन्ताजनिका वर्तते। तत्र विगतेभ्यः चतुर्दिनेभ्यः हिंसाचारः प्रवर्तते। शेख-हसीना-विरोधि-आन्दोलनस्य प्रमुख-नेता 'उस्मान हादी' इत्यस्य दिसम्बर-मासस्य १८-दिनाङ्के हत्या अभवत्। तदनन्तरं समग्रे बाग्लादेशे व्यापक-हिंसा प्रारब्धा।
अस्मिन् हिंसाचारे अल्पसंख्यकाः लक्ष्यीभूता: जाता: सन्ति। एका हृदयद्राविका घटना समक्षम् आगता। एकः उन्मत्त-जनसमूहः एकं हिन्दू-युवकं निर्दयतया मारयित्वा, तं वृक्षे लम्बयित्वा अग्निसात् अकरोत्। एतादृशं क्रूर-कृत्यं दृष्ट्वा मानवता लज्जिता जाता। एतस्य दुष्कृत्यस्य समग्रे विश्वे विरोध: जायमान: अस्ति।
अस्याः घटनायाः प्रत्युत्तरे भारते स्थितस्य बाङ्ग्लादेश-उच्चायोगस्य समक्षं जनैः विरोध-प्रदर्शनं कृतम्। एतद्विषये भारतीय-विदेश-मन्त्रालयेन आधिकारिकं निवेदनं प्रसारितम्। विदेश-मन्त्रालयस्य प्रवक्ता श्री रणधीर-जयस्वालः अवदत् यत् - "बाङ्ग्लादेशी-माध्यमेन (Media) भ्रामक-प्रचारः क्रियते। दिसम्बर-मासस्य २०-दिनाङ्के नवी-दिल्ली-स्थिते बाग्लादेश-उच्चायोगे कोऽपि संकटः न आसीत्।" तथापि, वर्तमान-स्थितिं दृष्ट्वा भारत-सर्वकारेण दिल्ली-स्थितस्य बाङ्ग्लादेश-दूतावासात् बहिः सुरक्षा-व्यवस्था सुदृढा कृता अस्ति।