राष्ट्रियराजधानीक्षेत्रे अद्य तीव्रवृष्ट्या विमानसञ्चारः बाधायुक्तः जातः। देहलीविमानपत्तनात् द्वे अन्ताराष्ट्रियविमाने अन्यानि च, आहत्य चतुर्दश विमानानि अन्यत्र प्रेषितानि। नगरे निरन्तरवृष्टेः कारणात् बहुषु स्थानेषु जलाप्लवः सञ्जातः, येन मार्गेषु वाहनानां गतिः मन्दीभूता। जलौघे निमग्नासु रथ्यासु यानानि मन्दं मन्दम् अगच्छन्। विमानपत्तने यात्रिकाः महतीं क्लेशपरम्पराम् अन्वभवन्। प्रशासनं साहाय्यकार्येषु संलग्नम् अस्ति।
चित्रं प्रतीकात्मकम्





















