Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उमरखालिदस्य, शर्जील इमामस्य, गुल्फिशा फातिमा, मीना हैदरस्य, अन्येषां दिल्लीप्रकरणे आरोपितानां प्रतिभू-याचनायाः विरोधं कुर्वन् दिल्लीपुलिद्वारा सर्वोच्चन्यायालये निवेदितं यत् बुद्धिजीविनः आतङ्कवादिनः भवन्ति चेत् अधिकभयावहा: भवन्ति। दिल्लीपुलिसद्वारा अत्र रक्तदुर्गकारयानविस्फोटस्य, बुद्धिमत्-आतङ्क-योजनाया: च उल्लेख: कृत:। श्रवणकाले अधिवक्त्रा शर्जील इमामस्य भाषणानां चलचित्राणि अपि दर्शितानि, येषु सः भारतात् पूर्वोत्तरराज्यस्य असमस्य देशात् भिन्नं कर्तुं,  दिल्लीनगरस्य जीवनयापन नाशयितुं, हिंसकविरोधं च कर्तुं कथयति स्म। गुरुवासरे (२० नवम्बर् २०२५) सर्वोच्चन्यायालये अभियुक्तानां प्रतिभूयाचनाविषये सुनवायीयां प्रवर्तमानकाले योजनाबद्धरूपेण बुद्धिजीविनः प्रथमं सर्वकारीयधनेन अध्ययनं कृत्वा वैद्याः अभियन्तार: च भवन्ति ततः राष्ट्रविरोधिकार्याणि कुर्वन्ति।

अधिवक्त्रा एस.वी.राजु इत्यनेन उक्तं यत् एतादृशा: साक्षरा: बुद्धिजीविन: आतङ्कवादिनः भवन्ति तदा ते सामान्य-आतङ्कवादिनामपेक्षया अधिकभयङ्कराः भवन्ति। मूलत: पूर्वयोजनानुसारं एतेषां मुख्यध्येय: सत्तापरिवर्तनं अर्थव्यवस्थानाश: च आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्