दीपावल्या: पर्वदिने दिल्लीनगरस्य वायुः विषवत् भयङ्करः अभवत्। केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) अनुसारं दीपावलीदिने दिल्लीनगरस्य वायुगुणवत्तासूचकाङ्क: "अतिदुर्बल" "गम्भीर" इति वर्गे प्राप्त:। नगरस्य ३८ प्रयवेक्षणस्थानेषु ३४ स्थानानि रक्तक्षेत्रे आगतानि। सोमवासरे (२० अक्टोबर्) सम्पूर्णदेहल्या: वायुगुणवत्तासूचकाङ्कः (AQI) ५३१ आसीत्, यत् महती गम्भीरा च वार्ता अस्ति। प्रदूषणस्य एषः स्तरः अनेकानि स्वास्थ्यसमस्यानि जनयितुं शक्नोति। ४०० तः अधिकं AQI 'गम्भीर' वर्गे मन्यते, यत् स्वस्थजनेषु अपि प्रभावं जनयितुं शक्नोति । अस्यां प्रदूषणस्थितौ जनै: बहिः न गमनीयं, मुखावरणस्य च प्रयोग करणीय:।





















