अधुना राष्ट्रियराजधान्यां शैत्यं वर्धमानमस्ति। प्रात:कालात् सायं यावत् शैत्यमनुभूयते। अस्मिन् सप्ताहे दिल्ली-एनसीआरक्षेत्रे वातावरणं निश्चितं न भविष्यति इति सम्भावना अस्ति । ११-१२ दिसम्बर् दिनाङ्के तापमानं ६°C यावत् न्यूनीभवितुं शक्यते । जलवायुविभागस्य अनुसारं ९ तः १४ दिसम्बर् यावत् प्रातःकाले नीहारः, धुम: च भविष्यति, दिवा मेघाः, शीतलवायुः च प्रचलिष्यति। समग्रे उत्तरभारते तापमानं इतोऽपि अध: गन्तुं शक्यते।





















