अद्य प्रातःकाले सान्द्र-कुज्झटिकायाः (dense fog) कारणेन दृश्यतायाः (visibility) अभावे सति दिल्ली-आगरा-द्रुतगामिमार्गे भीषणा दुर्घटना घटिता. तत्र ७ बस-यानानि ३ कार-यानानि च परस्परं संघट्टितानि (collided), अनन्तरं तेषु वाहनेषु अग्निः प्राज्वलितः। अस्यां दुर्घटनायां ४ जनाः मृताः तथा च २५ जनाः आहताः अभवन्। सर्वे आहताः जनाः चिकित्सालये प्रेषिताः सन्ति। घटनास्थले आरक्षकैः तथा अग्निशामकदलैः त्वरितं रक्षणकार्यं (rescue operation) प्रारब्धम्। अग्निशमनार्थं ११ अग्निशामक-वाहनानि (fire tenders) नियोजितानि आसन्।





















