Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यानगर्यां भव्यराममन्दिरस्य १६१ पादपरिमितस्य शिखरस्य उपरि मङ्गलवासरे प्रातःकाले वैदिकमन्त्राणां मङ्गले वातावरणे प्रधानमन्त्री नरेन्द्रमोदी केसरधर्मध्वजारोहणं कृतवान्। राममन्दिरस्य ध्वजारोहणं मन्दिरस्य निर्माणस्य समाप्तेः, सांस्कृतिकगौरवस्य च प्रतीकं मन्यते। अस्मिन् समये प्रधानमन्त्री मोदी उक्तवान् यत् राममन्दिरस्य धार्मिकध्वजस्य स्थापनायाः कारणात् अद्यैव स: महान् यज्ञः सम्पन्नः, यः ५०० वर्षाणि यावत् चलदासीत्। शताब्दीनां व्रणाः अधुना अपगता:। प्रधानमन्त्री नरेन्द्र मोदी प्रातः विवाहपञ्चमीदिने श्रीरामजन्मभूमिमन्दिरस्य ऐतिहासिकध्वजारोहणसमारोहात् पूर्वं शेषावतारमन्दिरे सप्तर्षिमन्दिरे च पूजां अर्चनाम् च अकरोत्। तदनन्तरं प्रधानमन्त्री मोदी तथा राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालक: मोहनभागवत: भव्ये राममन्दिरे तथा दरबार गर्भगृहे भगवत: रामस्य पूजाम् निराजनं च अकुरुताम्। कार्यक्रमेऽस्मिन् ताभ्यां सह उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ:, राज्यपाल: आनन्दीबेन पटेल: च उपस्थितौ आस्ताम्।

अद्यतनवार्ता

भारतम्

विश्वम्