दिल्ली-पब्लिक-स्कूल (DPS) वाराणसी-प्राङ्गणे पण्डित-मदन-मोहन-मालवीय-स्मृति-संस्कार-पुस्तकालयस्य तत्त्वावधानेन आयोजितायाः 'गीता-ज्ञान-संस्कृति-प्रतियोगितायाः' पुरस्कारवितरणसमारोहः सोत्साहं सम्पन्नः। वाराणस्याः ३१ विद्यालयानां १४,००० प्रतिभागिषु डीपीएस-विद्यार्थिभिः उत्कृष्टं प्रदर्शनं कृत्वा विद्यालयस्य यशः वर्धितम्।
प्रतियोगितायां डीपीएस-विद्यालयस्य विद्यार्थिभिः शत-प्रतिशतं साफल्यं प्राप्तम्। गीताज्ञानप्रतियोगितायां ४०, संस्कृतिज्ञाने २५, तथा श्लोकगायने १५ विद्यार्थिनः पुरस्कारान् प्राप्तवन्तः। समारोहस्य मुख्य-अतिथिः श्री-अखिलेशकुमाररायः विजेतृभ्यः भगवद्गीतां तथा प्रेरणादायि-पुस्तकानि पुरस्काररूपेण प्रदत्तवान्। प्रधानाचार्या श्रीमती मुनमुन-सेनगुप्ता तथा शैक्षिक-प्रमुखा रोली-मानखण्डः विद्यार्थिनां उत्साहवर्धनं कृतवत्यौ। समारोहस्य अन्ते धन्यवादप्रस्तावः चेतन-विङ्ग-समन्वयिका सुश्री सुनिपा-सान्यालमहोदया द्वारा कृतः। कार्यक्रमे काकुली मुखर्जी, किरण शर्मा च उपस्थितौ आस्ताम्|
सम्पूर्ण-कार्यक्रमस्य सफलसञ्चालनं संस्कृत-शिक्षक: डॉ. सदाशिव-तिवारी अकरोत्। अयं समारोहः आधुनिक-शिक्षायाः भारतीयसांस्कृतिकमूल्यानां च अद्भुतं समन्वयम् अदर्शयत्।
वार्ताहर: - सदाशिव:




.jpeg)


















