Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महामनस: पण्डितमदनमोहनमालवीयमहोदयस्य जयन्तीपर्वणि वाराणस्या: डी.पी.एस. विद्यालये

गीताज्ञान-प्रतियोगिता, भारतीयसंस्कृतिज्ञानप्रतियोगिता तथा गीताश्लोकगायनप्रतियोगिता इत्येतासां तिसॄणां प्रतियोगितानां भव्यं आयोजनं जातम्। अस्मिन् कार्यक्रमे विद्यालयस्य छात्राः महता उत्साहेन श्रद्धया च भागं गृहीतवन्तः।

कार्यक्रमे समन्वयिका सुश्री सुनिपा सान्याल महोदया प्रतियोगितानां प्रशंसां कृत्वा महामनस: मालवीयमहोदयस्य जीवनात् प्रेरणादायकान् प्रसङ्गान् निरूप्य छात्रान् तेषां जीवनमूल्यानि —सेवा, राष्ट्रभक्ति, चरित्रनिर्माणं संस्कारा: चेते गुणान् हृदये धारयितुं प्रेरितवती।

विद्यालयस्य संस्कृताध्यापकः श्री सदाशिव तिवारी महोदयः भगवद्गीतायाः उपदेशान् चरित्र-निर्माणे व्यक्तित्व-विकासे च अत्यन्तोपयोगिनः इति प्रतिपादयन् छात्रान् नियमित-गीता-अध्ययनाय प्रेरितवान्। सः अवदत् यत् विद्यालये प्रतिसप्ताहं गीता-श्लोक-अध्यापनस्य आरम्भः कृतः अस्ति।

अस्य महोत्सवस्य मुख्यसंयोजकः श्री अखिलेश कुमार राय महोदयः (ओमान-देशस्य स्वास्थ्य-मन्त्रालये Chief Pharmacist Officer, गीता-ज्ञान-शिक्षकः) अवदत् यत् मालवीय-स्मृति-संस्कार-पुस्तकालयस्य अध्यक्षस्य, मालवीय-मिशनस्य (बी.एच.यू. इकाई) उपाध्यक्षस्य तथा बी.एच.यू. विधि-संकायस्य प्राध्यापकस्य श्री शैलेन्द्र कुमार गुप्ता महोदयस्य मार्गदर्शनेन, तथा बी.एच.यू. सेवानिवृत्त-सहायक-कुलसचिवस्य डॉ. नरेशचन्द्र पाण्डेय महोदयस्य विशेष-सहयोगेन इदानीं यावत् १९ विद्यालयेषु एताः प्रतियोगिताः सम्पन्नाः, यत्र सहस्रशः छात्राः महता उत्साहेन भागं गृहीतवन्त:। तेनोक्तं यत् पण्डितमदनमोहनमालवीय: केवलं व्यक्तिनाम नास्ति, अपि तु भारतीय-संस्कृतेः गौरवं वहन्, गीता-सिद्धान्तान् जीवन्, राष्ट्रं सर्वोपरि मन्यमानः प्रातःस्मरणीयः महापुरुषः आसीत्। गीता-अध्ययनं, निःस्वार्थ-राष्ट्र-सेवा, स्व-संस्कृतेः प्रत्यक्षम् आचरणं आदर्शव्यक्तित्वमस्ति।

अस्मिन् अवसरे समाजसेविका श्रीमती विनिता देवहूति महोदया तथा आचार्या श्रीमती काकुली मुखर्जी महोदया अपि उपस्थिते आस्ताम्। ताभ्यां युगबालकानां संस्कार-निर्माणाय एषः प्रयासः अत्यन्तं महत्वपूर्णः इति अभिहितम्। विद्यालयस्य प्रधानाचार्या श्रीमती मुनमुन सेनगुप्ता महोदया, शैक्षणिक-प्रमुखा श्रीमती रोली मानखण्ड महोदया तथा सह-शैक्षणिक-गतिविधि-प्रमुखा श्रीमती काकुली मुखर्जी महोदया च पण्डितमदनमोहनमालवीयस्य शिक्षाविषये उक्तवत्य:। एषः कार्यक्रमः छात्राणां मध्ये संस्कार-बोधं, राष्ट्रप्रेम, आत्मविश्वासं तथा भारतीय-सांस्कृतिक-चेतनां च सुदृढीकर्तुं अत्यन्तं प्रेरणादायकः स्मरणीयश्च अभवत्।

अद्यतनवार्ता

भारतम्

विश्वम्