Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयखाद्यसुरक्षा-मानकप्राधिकरणेन (FSSAI) प्रसिद्धसंस्थयोः 'एवरेस्ट' तथा 'लालजी गोधू' इत्यनयोः सम्मिश्रितहिङ्गुविक्रयणे सामयिकः प्रतिबन्धः कृतः। प्रयोगशालापरीक्षणे द्वयोः संस्थयोः हिङ्गु उत्पादनेषु न्यूनगुणवत्ता प्राप्ता। मानकानुसारं शुद्धहिङ्गोः यन्मूल्यं भवेत्, तदपेक्षया अतीवन्यूनं तत्त्वम् अस्मिन् दृष्टम्। अपरञ्च उत्पादने पिष्टकस्य (starch) आधिक्यं निर्धारितप्रमाणात् अधिकं प्राप्तम्। अतः प्राधिकारिणः उभयोः संस्थयोः उत्पादनेभ्यः विक्रयणनिषेधं विधाय आपणस्थं सर्वं हीनगुणवत्ताद्रव्यं प्रत्याहर्तुं स्पष्टीकरणं च दातुं निर्दिष्टवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्