Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजधान्यां रक्तदुर्गमेट्रोस्थानकस्य समीपे सोमवासरे सायम् एकस्मिन् कारयाने भयानकविस्फोटः जात:। विस्फोटस्य अनन्तरं दिल्लीनगरे उच्चसचेतना प्रवर्तमाना अस्ति। विस्फोटानन्तरं याने घोरः अग्निः प्रज्वलितः, येन तत्परितः बहूनि वाहनानि दग्धानि। अस्यां घटनायां नवजना: मृताः, २४ जनाः च आहताः इति सूचना प्राप्ता अस्ति। अपरपक्षे I-20 कारयानस्य स्वामी सलमान: निरुद्धः अस्ति। प्रश्नोत्तरे सलमानः उक्तवान् यत् सः कारयानम् अन्यस्मै विक्रीतवान् इति। अस्य कारयानस्य हरियाणाराज्यस्य संख्यापट्टिका आसीत्, तस्य पञ्जीकरणं २०१४ तमे वर्षे गुरुग्रामे अभवत्। कारयाने CNG किट् स्थापितं आसीत्। परन्तु पुलिसदलस्य प्रारम्भिकान्वेषणे घटनास्थाने विस्फोटकसामग्री, कोषस्य अवशेषा: च प्राप्ता: अत: अयं सामान्य: विस्फोट: न आसीत् परन्तु मानवसर्जित: आयोजनबद्ध: विस्फोट: आसीत् इति। समग्रे प्रदेशे, विश्रामगृहेषु च सघनान्वेषणं प्रचलदस्ति। एतदर्थं स्थानिकपुलिसप्रशासनम्, एन.आई.ए., अन्यकेन्द्रीयसंस्था: अस्य पर्येषणं कुर्वत्य: सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्