Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देहलीपुर्याः आरक्षकैः कर्करोगनिवारक-कूटौषधानां महत् कूटजालम् उद्घाटितम्। अस्मिन् नवकोटि-रूप्यकाणां छलकपट-व्यवहारे सप्तसु राज्येषु अन्वेषणं कृत्वा सप्तदश (१७) जनाः गृहीता:। वञ्चकाः रुग्णेभ्यः लक्षरूप्यकैः दीयमानेषु सूच्यौषधेषु केवलं जलं पूरयित्वा विक्रीय जनान् वञ्चयन्ति स्म। तदतिरिक्तं सर्वकारेण रोगिभ्यः निःशुल्कं दीयमानानि औषधानि अपि चौर्येण कृष्णविपण्यां विक्रीतानि। आरक्षकैः पञ्चाशल्लक्षरूप्यकाणां मुद्राः, महता प्रमाणेन कूटौषधानि च गृहीतानि। जालमिदं देहली-मुम्बई-हैदराबादादि-नगरेषु प्रसारितम् आसीत्। अस्मिन् कुकृत्ये संलग्नानाम् इतरेषां दोषिणाम् अन्वेषणं तीव्रगत्या प्रचलति।

चित्रं - प्रतीकात्मकम् (AI Generated)

अद्यतनवार्ता

भारतम्

विश्वम्