महाराष्ट्रराज्यस्य लातूरमण्डलस्थे अभिजीतस्य तथा तस्य सहयोगिनामुपर अभियोगः पञ्जीकृतः। आरोपः अस्ति यत् अनुमतिं विना एते जनाः सर्वकारीयपाठशालायाः कक्षासु प्रविश्य शिक्षकैः सह विवादम् अकुर्वन्, छायाचित्राणि अगृह्णन्, अध्यापने च विघ्नम् उत्पादितवन्तः। शिक्षकाणां पदभ्रंशाय तर्जनम् अपि कृतवन्तः। शिक्षकाणां लिखितनिवेदनाधारेण आरक्षकैः अपराधस्य अन्वेषणम् आरब्धम्। देहल्यां आन्दोलने स्वविजयं मन्यमान: अभिजितगण: अधुना नियमानाम् उल्लङ्घनं कृत्वा यत्र कुत्रापि स्वलाभाय स्वार्थाय च प्रवेशं करोति।





















