Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-काश्मीरे प्रकृत्याः कोपेन द्वयोः स्थानयो: मेघविस्फोटः जातः, येन जनजीवनं अस्तव्यस्तं अभवत्। दक्षिणकश्मीरस्य अनन्तनागमण्डलान्तर्गते शङ्गस्-पहलगामक्षेत्रयोः शनैश्चरवासरे रात्रौ अतिवृष्ट्या सह आकस्मिकातिप्लाव: समायातः। प्रथमा दुर्घटना चिटरगुलक्षेत्रे अभवत्, यत्र अरपत्-नाल्याः जलस्तरः भयानकरूपेण प्रवृद्धः, कर्दमावृतं जलं च शालिक्षेत्रेषु गृहपरिसरेषु च प्रविष्टम्। अनन्तरं द्वितीया दुर्घटना पहलगामस्य ओवेरा-वन्यजीव-अभयारण्यक्षेत्रे जाता, यत्र वन्या जलोद्रेकेण काश्चन कुटीराः विश्रामगृहाणि (Hotels) च जलमग्नानि अभवन्। सर्वकारेण सुरक्षादृष्ट्या एकादश-केवी-विद्युत्वाहिन्यः स्थगिताः, पीडितक्षेत्रेषु च साहाय्यदलं प्रेषितम्।

अद्यतनवार्ता

भारतम्

विश्वम्