भारतीयखाद्यसुरक्षामानकप्राधिकरणेन (FSSAI) जनेभ्यः भोजनस्य सुरक्षां स्वास्थ्यं च विचिन्त्य एकः महत्तरः निर्णयः स्वीकृतः। अधुना खाद्यपदार्थानां वेष्टने सूक्ष्माणां लोहशङ्कूनां (stapler pins) धातुसूत्राणां वा प्रयोगः सर्वथा प्रतिषिद्धः। अयं नियमः सद्यः एव प्रवृत्तः। संस्थायाः दृष्टौ आगतं यत् मिष्टान्नपुटेषु, आपणिकानां भक्ष्यपुटेषु, प्रेषितभोज्यपुटेषु च लोहशङ्कूनां बहुधा प्रयोगः क्रियते। एते सूक्ष्माः लोहभागाः अज्ञानात् भोज्येन सह उदरं प्रविश्य अन्त्रेषु गभीरां क्षतिं जनयितुं शक्नुवन्ति। अतः प्राधिकारी सर्वान् उपाहारगृहस्वामिनः खाद्यविक्रेतॄंश्च सङ्केतयति यत् अस्य नियमस्य उल्लङ्घने 'खाद्यसुरक्षानियमः २००६' इत्यन्तर्गतं कारावासः कठोरः दण्ड: वा भविष्यति।





















