Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभाषां जनजनभाषां कर्तुं अहमदाबादनगरस्य एकलव्यसंस्कृत-अकादमी प्रतिवर्षं संस्कृतगरबाकार्यक्रमस्य आयोजनं करोति । तदन्तर्गतं परिमलोद्यानस्य समीपे कोर-हाऊसभवने चतुर्होरा यावत् संस्कृतगरबाकार्यक्रमस्य आयोजनं सततं एकादशतमे वर्षे अभवत् । मातुः आराधनां कर्तुं गुजरातप्रान्ते एका ’गरबा’ इति नृत्यगानस्य परम्परा अस्ति । अस्मिन् मातुः प्रतिमां परितः मण्डलाकारे जनाः गरबानृत्यं कुर्वन्ति । गरबागीतानि मूलतः गुजरातीभाषायाम् एव भवति परन्तु संस्थाद्वारा गरबागीतानां संस्कृतानुवादं कृत्वा जनान् संस्कृतं प्रति आकर्षयितुं प्रयत्नः क्रियते । कर्णप्रियसंस्कृतगीतानां पवित्रवातावरणे नगरस्थाः नैके जनाः उत्साहपूर्वकं नृत्यं कृत्वा संस्कृत-गरबा-प्रार्थनामयाः जाताः। अत्र सर्वेऽपि वादकाः गायकाः स्वयं सेवकाः एव । कार्यक्रमेऽस्मिन् नैके गणमान्याः नागरिकाः अपि उपस्थिताः आसन् ।

अद्यतनवार्ता

भारतम्

विश्वम्