Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य अयोध्यायां स्थिते भव्ये श्रीरामजन्मभूमिमन्दिरे भक्तानां कृते एकः नवीनः आनन्ददायकः आश्चर्यकारी च विषयः उपस्थितः अस्ति। मन्दिरस्य गर्भगृहे इदानीं भगवान् रामलला इत्यस्य एका नूतना, दीप्तिीमती 'सुवर्ण-प्रतिमा' अपि दर्शनार्थं स्थापिता वर्तते।

प्राप्त-वार्तानुसारम्, एषः बालरूपरामस्य विग्रहः सम्पूर्णतया सुवर्णेन निर्मितः अस्ति। अस्य विग्रहस्य भारः प्रायः चत्वारि किलोग्राम-परिमितः अस्ति, तथा च अस्य उच्चता नव-अङ्गुल-परिमिता वर्तते। सुवर्णस्य वर्तमान-मूल्यं कलात्मक-निर्माण-व्ययं च संयोज्य अस्याः प्रतिमायाः अनुमानितं मूल्यं प्रायः ३० कोटि-रूप्यकाणि इति आकलयते।

इयं बहुमूल्या प्रतिमा केनचित् अनन्य-रामभक्तेन 'गुप्तदान'-रूपेण मन्दिराय समर्पिता अस्ति। 'श्रीराम-जन्मभूमि-तीर्थक्षेत्र-न्यासेन' एतस्य महादातुः नाम-परिचयादिकं सार्वजनिकं न कृतम्। उल्लेखनीयम् अस्ति यत्, गर्भगृहे या मुख्य-कृष्णशिला-मूर्तिः प्राणप्रतिष्ठिता अस्ति, तस्याः पुरतः एव एषा लघ्वाकारा सुवर्णप्रतिमा स्थापिता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्