Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रसर्वकारेण स्वास्थ्यमन्त्रालयस्य निर्देशानुसारं स्वास्थ्यहानिकराणि वैज्ञानिकाधाररहितानि च षोडश नियतमात्रा-मिश्रितौषधानि (FDC) सद्यः प्रतिषिद्धानि। एतेषाम् औषधानां निर्माणे, विक्रये, वितरणे च पूर्णतः रोधः प्रख्यापितः। अस्यां प्रतिबन्धसूच्यां मुख्यत्वे वेदनाशामक-ज्वरनाशक-मधुमेह-त्वग्रोगाणाम् औषधानि सम्मिलितानि सन्ति। भेषज-तान्त्रिक-परामर्शदातृ-मण्डलेन अन्वेषणेन ज्ञातं यत् एतेषां भिन्नघटकानां मिश्रणेन रोगिणां कोऽपि चिकित्साकीयलाभः न भवति, अपितु पार्श्वप्रभावाः चिकित्साव्ययश्च एव वर्धते। सर्वकारस्य अयं वैज्ञानिकः निर्णयः रोगिभ्यः केवलं सुरक्षितानि प्रभाविणि च औषधानि प्रदातुं सर्वथा श्लाघनीयः वर्तते।

अद्यतनवार्ता

भारतम्

विश्वम्