भारतसर्वकारेण जनस्वास्थ्यं रक्षितुं एकः महत्त्वपूर्णः निर्णयः स्वीकृतः अस्ति। देशे बहुधा प्रयुक्तस्य, वेदनाशामकस्य (Painkiller) तथा ज्वरनाशकस्य औषधस्य 'निमेसुलाइड' (Nimesulide) इत्यस्य उपयोगे कठोरं नियन्त्रणं स्थापितम्। केन्द्रीयस्वास्थ्यमन्त्रालयेन प्रसारिताया: अधिसूचनायाः अनुसारम्, इदानीं भारते 'निमेसुलाइड' औषधस्य १०० मिलीग्रामतः (100 mg) अधिकमात्रायाः मुखसेव्यानि सर्व-औषधसंयोजनानि (All Oral Formulations) प्रतिबन्धितानि भविष्यन्ति। अर्थात्, इतः परं विपणिषु १०० मि.ग्रा. तः अधिका: शक्तियुक्ताः निमेसुलाइडगोलिकाः (Tablets) अथवा अन्य-रूपाणि न विक्रेष्यन्ते। अस्य निर्णयस्य मुख्यं कारणं 'निमेसुलाइड' इत्यस्य अत्यधिक-उपयोगेन यकृतः (Liver) उपरि जायमानः दुष्प्रभावः मन्यते। संशोधनै: इदं सिद्धं जातं यत् अस्य औषधस्य उच्च-मात्रायाः सेवनं यकृते गम्भीरं क्षतिं जनयितुं शक्नोति। अनेन कारणेन अनेकेषु विकसितदेशेषु पूर्वमेव एतस्य उपरि प्रतिबन्धः अस्ति।





















