Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जदयू (संयुक्त) राष्ट्रियाध्यक्षः नीतीशकुमारः अद्य २० नवम्बर् गुरुवासरे पटनानगरस्य ऐतिहासिकगान्धिक्रीडाङ्गणे भव्यसमारोहे दशमवारं बिहारस्य मुख्यमन्त्रिपदस्य शपथं ग्रहीतुं सज्जः अस्ति। अस्मिन् ऐतिहासिके कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी अपि उपस्थित: भविष्यति इत्येव अस्य कार्यक्रमस्य महत्त्वं दर्शयति। ७४ वर्षीयः नेता नीतीशकुमारः राज्यपाल-आरिफ मोहम्मदखानद्वारा शपथं स्वीकरिष्यति। बिहारे नीतीशकुमारस्य नेतृत्वे रचितस्य नूतनस्य एनडीए-सर्वकारे ये मन्त्रिणः सम्मिलिताः भविष्यन्ति तेषां नाम्नां निर्णयः जात: अस्ति। अद्य मुख्यमन्त्रिणा नीतीशकुमारेण सह आहत्य २५ मन्त्रिणः शपथग्रहणं करिष्यन्ति। भारतीयजनतापक्षेण मन्त्रिमण्डले सर्वाधिकं भागः प्राप्तः, यस्मिन् आहत्य १४ मन्त्रिणः सन्ति, येषु द्वौ उपमुख्यमन्त्रिणौ अपि सन्ति। सम्भावनानुसारं मन्त्रिमण्डले भारतीयजनतापक्षस्य १४, जनतादल(यू) इत्यस्य ७, लोकजनशक्तिपार्टीत: २, हिन्दुस्थानी-आवाममोर्चात: १, राष्ट्रियलोकमोर्चात: १ इति मन्त्रिण: शपथं स्वीकरिष्यन्ति इति।

चित्रं : प्रतीकात्मकम् 

अद्यतनवार्ता

भारतम्

विश्वम्