प्रवर्तमानपरिस्थितिम् अनुलक्ष्य गुजरात-राज्यस्य राज्यपालः आचार्यदेवव्रतमहोदयः एकं अनुसरणीयं निर्णयं गृहीतवान्। 'लोक-भवने' आयोजितायां विशेषसभायां तेन घोषितं यत् राजकीयव्ययस्य न्यूनतायै तथा च ईन्धनरक्षणाय सः स्वकीयां राजमर्यादाम् (Protocol) अपि पार्श्वे स्थापयिष्यति।
१. हवाई-यात्रा-त्यागः - यावत् ईन्धनसङ्कटं न शाम्यति, तावत् राज्यपालमहोदयः राज्यभ्रमणाथं हेलीकॉप्टर अथवा विमान-यात्रां न करिष्यति। तस्य स्थाने सः रेलयानस्य, सार्वजनिकलोकयानस्य (ST Bus) च प्रयोगं करिष्यति।
२. यान-व्यूह-न्यूनता (Convoy Reduction) - राज्यपालस्य 'जेड-प्लस' (Z+) सुरक्षाव्यूहे यानानां सङ्ख्यायां महत् कर्तनं कृतम्। सः अवदत् यत्— "ईन्धनस्य रक्षणं केवलम् आर्थिकं कार्यं नास्ति, अपितु देशहितस्य विषयः अस्ति।"
३. शिक्षा-क्षेत्रे परिवर्तनम् - तेन विश्वविद्यालयस्य उपकुलपतयः (VCs) आदिष्टाः यत् सप्ताहे एकं दिनं 'दहन-यन्त्र-मुक्त-दिनम्' (Combustion Engine Free Day) रूपेण आचरेयुः। तस्मिन् दिने सर्वे छात्राः शिक्षकाः च द्विचक्रीकाम् (Cycle) अथवा विद्युत्-वाहनानां प्रयोगं कुर्युः।
४. कर्मचारिणां मार्गदर्शनम् - राज्यपालः सर्वकारीयविभागेभ्यः अपि स्पष्टं निर्देशं दत्तवान् यत् अनर्गल-वाहनानां प्रयोगं त्यक्त्वा मितव्ययिता पालनीया।
परन्तु पूर्वमपि राज्यपालपदे स्थित्वा अपि सः अनेकवारं राजकीयप्रवासेषु लोकयानानां प्रयोगं कृतवान्। एषः तस्य 'अहङ्कार-रहित' स्वभावस्य तथा च राष्ट्र-सम्पत्ति-रक्षणस्य उत्कृष्टः उदाहरणः अस्ति। सः भव्यविश्रामभवनानां (Circuit House) स्थाने ग्रामस्य सामान्यविद्यालयेषु वासः कृतवान्। एतेन न केवलं व्यय-न्यूनता भवति, अपितु ग्रामाणां शैक्षणिकस्थितेः प्रत्यक्षं ज्ञानम् अपि सः प्राप्तवान्।





















