बङ्गाल-खाते निर्मितस्य वापीडकारणात् 'मोन्था' चक्रवातः पूर्वतटं प्रति आगच्छति, यस्य कारणात् आन्ध्रप्रदेश-ओडिशा-तमिलनाडु-राज्येषु प्रचण्डवायुः, प्रचण्डवृष्टिः च भवति। ओडिशासर्वकारेण सर्वेषां ३० मण्डलानां कृते सचेतना उद्घोषिता अस्ति। अपि च पश्चिमबङ्गदेशे अस्य चक्रवातस्य प्रभावः दृश्यते। अतः आन्ध्रप्रदेशसर्वकारेण चक्रवातं लक्ष्यीकृत्य साहाय्यस्य आवश्यकसामग्रीणां च कार्ययोजना निर्मिता अस्ति। सेनादलम् अपि उच्चसातर्क्यस्थितौ अस्ति।
जलवायुविभागेन अरबसागरे अवसादस्य कारणात् सौराष्ट्र-दक्षिणगुजरात-सहितक्षेत्रेषु ३० अक्टोबर्-पर्यन्तं प्रचण्डवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति।





















