Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना परीक्षा-पद्धतेः परिष्काराय एका महती घोषणा कृता। नीट-परीक्षायाः (NEET) प्रश्नपत्र-प्रकटीकरणस्य समस्यायाः अनन्तरम् सर्वकारेण तान्त्रिक-विशेषज्ञस्य नन्दन-नीलेकणि-महोदयस्य नेतृत्वे एका उच्चस्तरीय-समितिः निर्मिता। प्रधानमन्त्रिणा उक्तं यत् छात्रैः सह ये छलम् अकुर्वन्, ते सम्प्रति कारागारे सन्ति। शासनम् एतदर्थं त्वरित-न्यायालयान् अकल्पयत्, कठोर-नियम-युक्तम् नूतनं नियमम् (Law) अपि रचयति। आगामि-परीक्षासु विश्वासार्हता पारदर्शिता च स्थापयितुम् एषा समितिः कार्यं करिष्यति। अस्याः समितेः परामर्शानुसारम् शीघ्रमेव परीक्षा-प्रणाल्याम् आधुनिक-प्रविधेः (Technology) उपयोगः भविष्यति। अस्यां समितौ भारतीय-अंतरिक्ष-अनुसंधान-संघटनस्य (ISRO) पूर्व-अध्यक्षः एस. सोमनाथः, गुप्तचर-विभागस्य (IB) पूर्व-प्रमुखः तपन-डेका, भारतीय-प्रौद्योगिकी-संस्थान (IIT) मद्रास-इत्यस्य निदेशकः वी. कामकोटिः, पूर्वशिक्षा-सचिच अनीता-करवाल, तथा च सम्भरण-विशेषज्ञः (Logistics Expert) अमृत-लाल-मीणा-महोदयः समाविष्टाः सन्ति। एते सर्वे मान्याः महान्तः परीक्षा-प्रणाल्याः परिष्काराय, नूतन-प्रविधेः (Technology) उपयोगाय च स्वाभिप्रायं प्रदास्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्