पञ्चसु राज्येषु प्रचलितायां विधानसभानिर्वाचनप्रक्रियायां गुरुवासरे पश्चिमबङ्गालराज्यस्य १५२ आसनेषु तथा च तमिलनाडुराज्यस्य सर्वेषु २३४ आसनेषु मतदानं सम्पन्नम्। पश्चिमबङ्गालराज्ये हिंसाघटनाभिः तथा च त्रिभिः अभ्यर्थिभिः सह संघर्षानन्तरमपि ऐतिहासिकं ९२.१४% मतदानं सञ्जातम्। अपरतः तमिलनाडुराज्ये अपि एकस्मिन् एव चरणे ८४.९८% उच्चमतदानं अभवत्।
मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारमहोदयस्य कथनानुसारम् अस्मिन् वर्षे स्वातन्त्र्यात् परं सर्वाधिकं मतदानं सञ्जातम्। विशेषतः महिला-मतदातॄणां उत्साहः पुरुषाणां अपेक्षया अधिकः आसीत्। बङ्गालराज्ये ९२.६९% महिला: मतदानाय निर्गताः, यत् कश्चन महान् विक्रमः अस्ति।





















