Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-न्यूजीलैण्ड-देशयोः मध्ये 'शुल्कमुक्त-व्यापार-सन्धिपत्रम्' (Free Trade Agreement) सम्पन्नम्। अस्मिन् सन्धौ उभौ देशौ परस्परं पूर्णतया १००% (शत-प्रतिशतं) शुल्क-मुक्त-निर्यातं (Duty-free Export) कर्तुं शक्ष्यतः। अस्मिन् मुख्यतया वस्त्राणि, चर्म-पादुकाः, वज्र-मणयः तथा च स्वर्णालङ्काराः समाविष्टाः सन्ति।

न्यूजीलैण्डदेशस्य संसद: अनुमत्यनन्तरं अयं सन्धिः वर्षान्ते प्रवृत्तः भविष्यति। भारते तु केन्द्रीयमन्त्रिमण्डलेन एषा व्यापारसम्मतिः पूर्वमेव स्वीकृतः। एषः तादृशः द्वितीयः व्यापार-सन्धिः अस्ति यस्मिन् भारतेन आगामिपञ्चदशवर्षेषु २० अर्बुद (Billion) डोलरपरिमितस्य निवेशस्य प्रतिबद्धता प्राप्ता। वाणिज्य-उद्योग-मन्त्री पीयूष-गोयल-महोदयः तथा च न्यूजीलैण्ड-देशस्य व्यापारमन्त्री टोड्-मैकले-महोदयः अस्मिन् पत्रे हस्ताक्षरं कृतवन्तौ। अनेन उभयोः देशयोः द्विपक्षीयव्यापारः पञ्च-अर्बुद-डोलर-परिमितः भविष्यति इति अनुमानम् अस्ति। प्रधानमंत्री नरेन्द्रमोदी उक्तवान् यत् अस्मात् सन्धितः कृषकाः, युवानः, महिलाः, लघु-उद्यमिनः (MSME), कलाकाराः तथा च संशोधकाः लाभान्विताः भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्