महिलाविश्वचषकक्रिकेटप्रतियोगितायां भारतेन दक्षिण-आफ्रिकाविरुद्धं भव्य: चिरस्मरणीय: विजय: प्राप्त: अस्ति। क्रीकेटक्रीडायां न केवलं भारतीयपुरुषा: अपि तु महिला: अपि समग्रे विश्वे स्वशक्तिं सामर्थ्यं च दर्शयन्ति। शेफाली वर्मा, स्मृतिमान्धना, दीप्तिशर्मा, जेमी इत्यादिन्य: क्रीडाल्व्य: उल्लेखनीयं संयमितं कौशलपूर्णं प्रदर्शनं कृतवत्य:। परस्परं समन्वयनेन, एकाग्रतया, योग्यनिर्णयशक्त्या: परिश्रमेण च अयं अपूर्वसिद्धि: प्राप्ता अस्ति। प्रतियोगिताया: अन्तिमनिर्णायकस्पर्धायां भारतेन दक्षिणाफ्रिकाविरुद्धं २९८ धावनाङ्कान् प्राप्ता:। इयं उपलब्धि: महिलानां एकदिवसीयविश्वचषकप्रतियोगिताया: अन्तिमचरणस्य द्वितीयक्रमस्य सर्वोच्चधावनाङ्का: सन्ति।