भारतीय-आयुर्विज्ञान-अनुसन्धान-परिषदा (ICMR) देशस्य स्वास्थ्यक्षेत्राय एक: अत्यन्तं चिन्ताजक: निर्देश: दत्त: अस्ति। ICMR इत्यस्याः नवीनतम-प्रतिवेदनानुसारम्, भारते 'एन्टीबायोटिक-प्रतिरोधः' (Antimicrobial Resistance - AMR) द्रुतगत्या एकं 'मूक-सन्निपातक' (Silent Epidemic) रूपं गृह्णन् अस्ति। अस्य अर्थः अस्ति यत् इदानीं अनेक-प्रकारकेषु जीवाणुसंक्रमणेषु (Bacterial Infections) सामान्यरूपेण प्रयुक्तानि एन्टीबायोटिक-औषधानि निष्प्रभावाणि जायमानानि सन्ति। यदा कश्चित् रोगी औषधं सेवते, तदापि तस्य शरीरे स्थिताः रोगाणवः न नश्यन्ति। एतेन चिकित्सा कठिना भवति, रोगस्य गम्भीरता वर्धते, तथा च मृत्यु-आङ्क: अपि वर्धयितुं शक्नोति।
ICMR-प्रतिवेदने अस्य प्रमुखं कारणं चिकित्सकानां परामर्शात् विना, अथवा अनावश्यकरूपेण अत्यधिकमात्रायां एन्टीबायोटिक-औषधानां सेवनम् इति दर्शितम् अस्ति। जनाः सामान्य-ज्वरे, कासे वा स्वयमेव एतानि औषधानि गृह्णन्ति, यत् घातकं सिद्ध्यति।
यदि एषः प्रतिरोधः एवमेव वर्धेत, तर्हि भविष्ये सामान्य-शल्यक्रिया (Surgery) अपि अतीव हानिपूर्णा भवितुम् अर्हति। ICMR संस्थायाः वैज्ञानिकाः जनसामान्यं, चिकित्सकान् च औषधानां विवेकपूर्ण-उपयोगाय जागरूकतया आह्वाहनं कुर्वन्ति।
चित्रं - प्रतीकात्मकम्