Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-जलवायु-विभागेन (IMD) २०२६ वर्षस्य दक्षिण-पश्चिम-वर्षा-ऋतोः विषये अल्पवृष्टेः पूर्वसूचना प्रदत्ता। विभागस्य आकलनानुसारम् अस्मिन् वर्षे वृष्टिः सामान्यात् न्यूना भविष्यति। जुनमासतः सेप्टेम्बरमासपर्यन्तं सम्पूर्णे देशे वृष्टेः परिमाणं 'दीर्घकालीनमध्यमानस्य' (LPA) केवलं ९२% (द्विनवति-प्रतिशतम्) भविष्यति। एषा स्थितिः 'सामान्यत: न्यूना' इति श्रेण्यां गण्यते। अस्मिन् वर्षे 'अल-नीनो' (El Niño) प्रभावस्य अपि महती सम्भावना अस्ति, येन वृष्टेः उपरि प्रतिकूलं प्रभावं वर्धिष्यते। यद्यपि अस्मिन् आकलने ५% न्यूनता वा अधिकता वा सम्भविता, तथापि प्राथमिकसंकेताः न्यूनवृष्टिं प्रति एव इङ्गितं कुर्वन्ति। 

चित्रं - प्रतीकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्