भारतीय-ऋतुविज्ञान-विभागेन देशस्य विभिन्नेषु राज्येषु अतीव महत्याः वृष्टेः पूर्वसूचना प्रदत्ता। उत्तरखण्ड-उत्तरप्रदेश-बिहार-मध्यप्रभृतिषु प्रदेशेषु घनघोर-वर्षया सह वज्रपातः प्रचण्डवातः च भविष्यति। उत्तरखण्डस्य पर्वतीय-क्षेत्रेषु भूस्खलन-कारणात् मार्गाः अवरुद्धाः अभवन्, येन यात्रिकाः सावधानाः भवितुं सूचिताः। उत्तरप्रदेशे मध्यप्रदेशे च नदीनां जलवृद्ध्या जलप्लवस्य (Flood) महती सम्भावना वर्तते। समुद्रतटीय-प्रदेशेषु तीव्रां वायुगतिं दृष्ट्वा धीवराः अपि सागरं न गन्तुम् उपदिष्टाः। सर्वकारेण आपत्कालीन-विभागाः सन्नद्धाः कृताः।





















