Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ऋतु-विज्ञान-विभागेन (IMD) भीषण-आतपेन पीडितेषु अनेकेषु प्रान्तेषु चक्रवात-सहित-वृष्टेः (Thunderstorm Alert) पूर्व-सूचना घोषिता। आगामि-चतुरहः (२८ तः ३१ मे) यावत् उत्तर-मध्य-पूर्व-भारतेषु प्रतिहोरा १०० कि.मी. तीव्रेण वेगेन पवन: चलिष्यति, येन तापक्रमः न्यूनः भविष्यति। अपि च, असम-मेघालय-अरुणाचलादि-पूर्वोत्तर-राज्येषु तथा च कर्नाटक-केरलम्-आन्ध्र-तमिलनाडु-सदृश-दक्षिण-प्रान्तेषु विद्युत्-सम्पातेन सह अतिवृष्टेः सम्भावना अस्ति। अतः प्रशासनेन जनाः सतर्कतायै आदिष्टाः।

अद्यतनवार्ता

भारतम्

विश्वम्