Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य रक्षाप्रौद्योगिक्याः सामरिककूटनीतिः च एकवारं पुनः अअन्ताराष्ट्रियमञ्चे स्वस्य उपस्थितिं उदघोषयत्। ४५ कोटि डॉलरमूल्यस्य ब्रह्मोस् सुपरसोनिक क्रूज मिसाइल क्रयणम् अधुना अन्तिमस्तरे अस्ति। संयुक्तभारतीयरूसीप्रौद्योगिक्या सह विकसितम् एतत् क्षेपणास्त्रं विश्वस्य द्रुततमेषु विश्वसनीयतमेषु रणनैतिकप्रणालीषु अन्यतमम् अस्ति । अनेके देशाः चिरकालात् तस्य क्रयणे रुचिं प्रकटयन्त: सन्ति।  एएनआई-प्रतिवेदनानुसारं सम्भाव्यक्रेतारः सैन्यकार्यक्रमेषु ब्रह्मोस् क्षेपणास्त्रात् प्राप्तान् परिणामान् निकटतया अवलोकितवन्तः, तस्य सटीकतायै च अत्यन्तं प्रभाविताः अभवन् एतेन प्रभावेण ते तत्क्रेतुमुत्साहिता: सन्ति। अस्य वायु-स्थल-समुद्रेभ्य: प्रक्षेपणस्य क्षमता रणनैतिकदृष्ट्या परिणामदायिनि प्रभावोत्पादिका च अस्ति। एतदेव कारणं यत् भारतं केवलं शस्त्रस्य आयातकं न भवति, अपितु स्वयमेव एकः सशक्तः निर्यातकः इति रूपेण उद्भूत: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्