Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इसरायल्-अमेरिका-इरान् इति देशानां मध्ये प्रवृद्धे सङ्घर्षे सति विश्वे तैलसङ्कटस्य भयावहता वर्तते। अस्मिन् अन्तराले अमेरिकादेशेन रशियादेशतः ३० दिनानां कृते तैलक्रयणस्य या 'अनुमतिः' दत्ता, तामुद्दिश्य भारते राजनैतिक-विवादः उद्भूतः। विपक्षेण प्रश्नः कृतः यत्— "भारतस्य क्रयणनिर्णये अमेरिकादेशः कः अनुमतिदाता?" भारतसर्वकारेण 'पी.आई.बी' (PIB) माध्यमेन स्पष्टीकृतं यत् होर्मुज-अखाते सङ्घर्षे सत्यपि भारतस्य ऊर्जा-आपूर्तिः स्थिरा वर्तते। भारतेन स्वकीया तैल-क्रयण-नीतिः परिष्कृता, अधुना भारतं २७ देशानां स्थाने ४० देशेभ्यः ’कच्चा’-तैलं क्रीणाति। राष्ट्रहिते यत्र न्यूनतमे मूल्ये तैलं उपलब्धं भविष्यति, तत: एव भारतं तैलं क्रेष्यति। भारतस्य तैल-शोधनागाराणाम् (Refineries) कार्यक्षमता ईदृशी अस्ति यत् ते विभिन्न-श्रेण्याः तैलं परिष्कर्तुं शक्नुवन्ति। अतः आपूर्ति-शृङ्खलायां कोऽपि अवरोधः न भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्