सीमायां भारत-पाकिस्तानयोः युद्धस्य परिस्थितौ केन्द्रसर्वकारेण भारतीयसेनाप्रमुखाय अधिका: अधिकारा: दत्ता: सन्ति। क्षेत्रीयसेनायाः आह्वानस्य अनुमतिः अपि दत्ता अस्ति । प्रादेशिकसेनायां सम्प्रति ४० सहस्राधिकाः सैनिकाः सन्ति ये युद्धस्य सन्दर्भे सेनायाः साहाय्यं कर्तुं शक्नुवन्ति। केन्द्रसर्वकारेण सेनाप्रमुखाय क्षेत्रीयसेनापदाधिकारिभ्यः सर्वान् कर्मचारिणः सेनासाहाय्यार्थं आह्वातुम् अनुमतिः दत्ता अस्ति। अस्या: प्रादेशिकसेनायाः ३२ बटालियन्स् सन्ति, येषु १४ सम्प्रति सक्रियाः सन्ति। एतदर्थं केन्द्रीयरक्षामन्त्रालयस्य सैन्यकार्यविभागेन एका अधिसूचना उद्घोषिता अस्ति। एषः आदेशः वर्षत्रयं यावत् प्रवर्तते। अर्थात् २०२८ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं अस्याः प्रादेशिकसेनायाः साहाय्यं ग्रहीतुं शक्यते। क्षेत्रीयसेना टेटोरियल् आर्मी - प्रादेशिकसेना इति नाम्ना प्रसिद्धा अस्ति । १९४९ तमे वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के अस्या: स्थापना अभवत्।
इयं प्रादेशिकसेना, सेना इव प्रशिक्षिता भवति, यः कोऽपि अस्यां प्रादेशिकसेनायां सम्मिलितः भवति, यदा तेषां उपयोगः न भवति तदा ते नागरिकाणां समानं जीवनं यापयन्ति। यदा युद्धं भवति अथवा यदा आवश्यकं भवति तदा ते सेनायाः कार्यं ग्रहीतुं आरभन्ते । युद्धम्, आपदा इत्यादिषु परिस्थितिषु देशस्य मुख्यसेनायाः साहाय्यार्थं एषा सेना उपयुज्यते । प्रादेशिकसेनायाः स्थापनायाः उद्देश्यं मुख्यसेनायाः क्षमतावर्धनम् अस्ति। सम्प्रति पाकिस्तानविरुद्धं सिन्दूर-कार्यक्रमस्य अन्तर्गतं एषा क्षेत्रीयसेना सज्जा भवितुम् आदेशः दत्त: अस्ति, पूर्वं तेषां उपयोगः जलप्रलयः, भूकम्पः, भूस्खलनम् इत्यादिषु परिस्थितिषु कृतः अस्ति अस्याः सेनायाः सैनिका: पर्यावरणसंरक्षणकार्यं कुर्वन्ति।