भारतस्य रक्षा-क्षेत्रे 'आत्मनिर्भरता' निमित्तम् एकं महत्त्वपूर्णम्, ऐतिहासिकं च सोपानं प्राप्तम् अस्ति। भारतीय-सेनायाः युद्ध-सामग्र्याः (Arms and Ammunition) आपूर्ति-विषये विदेशेषु निर्भरता इदानीं न्यूनतमस्तरे आगता। सेनामुख्यालयेन प्रदत्तसूचनानुसारं, वर्तमानसमये भारतीयसेना स्वस्याः आवश्यकतायाः ९०% शस्त्रास्त्राणि तथा च विस्फोटकानि स्वदेशे एव निर्माति। अस्यां महत्यां सफलतायां केवलं वर्तमानस्थितिः एव न, अपितु भविष्यस्य योजना अपि सुदृढा अस्ति। ज्ञातं यत्, भारतीयसेनायाः कृते स्वदेशी-रक्षा-उद्योगेभ्यः प्रायः १६,००० कोटिरूप्यकाणां मूल्यस्य विभिन्नानां विस्फोटकानां, प्रक्षेपणास्त्राणां (Missiles) च नूतनाः क्रय-आदेशाः अपि प्रक्रियायां सन्ति। प्रधानमन्त्रिणः 'मेक-इन-इण्डिया' तथा 'आत्मनिर्भर-भारत' अभियानयोः रक्षा-क्षेत्रे अद्भुतं परिणामं दृश्यते।





















