विदेशमन्त्रालयेन स्पष्टीकृतं यत् पारपत्रं (Passport) केवलं विदेशयात्रायाः साधनं वर्तते, न तु भारतस्य नागरिकतायाः दृढं प्रमाणम्। मन्त्रालयानुसारं देशे सम्प्रति ५४५ पारपत्रकेन्द्राणि सक्रियाणि सन्ति, यत्र षट्सु दिनेषु एव पारपत्रं निर्मीयते। भारतीयपारपत्रेण सम्प्रति सप्तविंशतिर्देशेषु पारपत्रं विनैव प्रवेशः लभ्यते। नागरिकतानियमानुसारं १ जुलाई १९८७ दिनाङ्कात् परं भारते जातस्य कस्यापि जनस्य कृते केवलं जन्मप्रमाणपत्रं, पारपत्रं वा नागरिकतायाः कृते पर्याप्तं नास्ति, यावत् तस्य पित्रोः (मातापित्रोः) कश्चिदेकः भारतस्य प्रामाणिक: नागरिकः न भवेत्; इति उच्चन्यायालयस्यापि निर्णयः अस्ति।





















