Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मध्यप्रदेशे एका लोकोक्तिः अस्ति । सिंधियापरिवारस्य यः कोऽपि सदस्यः यस्मात् कस्मात् अपि दलात् प्रत्याशी भवति, विजयः तु भवति एव परन्तु एतस्मिन् निर्वाचने एषा लोकोक्तिः नष्टा । सिंधियापरिवारस्य राजपुत्रः ज्योतिरादित्यसिंधिया पराजितः । कारणमस्य आश्चर्यकारकमस्ति। विधानसभालोकसभयोः आहत्य विंशतिः निर्वाचनेषु सिंधियापरिवारस्य जनाः चतुर्दशवारं विजयं प्राप्तवन्तः । ज्योतिरादित्यस्य पितामही विजयाराजेसिंधिया षड्वारं, पिता माधवरावसिंधिया चतुर्वारं, ज्योतिरादित्यः स्वयं चतुर्वारं च विजयं प्राप्तवन्तः । मध्यप्रदेशस्य सिंधियापरिवारस्य गुना-आसनम् तेषां परम्परागतम् आसनम् अस्ति । निर्वाचनेऽस्मिन् विंशतिः वर्षाणामनन्तरं केसरपताका समुच्छ्रिता । वस्तुतः पराक्रमोऽयं ज्योतिरादित्यस्य अहङ्कारं नाशयितुं अपमानं अनुभवता कोंग्रेसदलस्य एकेन जनपदस्तरस्य कार्यकर्त्रा केपीयादवेन कृतः । के.पी.यादवः वृत्त्या एम.बी.बी.एस. वैद्यः अस्ति। जनपदस्तरे सः एकः उत्साही कार्यकर्ता आसीत् यः नि:स्वार्थभावेन दलाय कार्यं कुर्वन्नासीत् । तस्य पिता अपि जनपदाध्यक्षरूपेण कार्यं कुर्वन्नासीत्। एकस्मिन् समये सः ज्योतिरादित्यस्य निकटवर्तीकार्यकर्ता आसीत् । २०१८ तमे वर्षे विधानसभायाः उपनिर्वाचने ज्योतिरादित्येन स्वयं प्रत्याशिरूपेण चिटिकां दातुं उक्तमासीत् परन्तु अन्तिमे समये दलेन विश्वासघातः कृतः । तत् पूर्वं एकस्मिन् समये यदा के.पी.यादवः ज्योतिरादित्यस्य यानस्य समीपे आसीत् तदा तेन ज्योतिरादित्येन सह ’सेल्फी’ स्वीकर्तुं प्रार्थना कृता । परन्तु अहङ्कारपूर्णेन ज्योतिरादित्येन सः तर्जितः अपमानञ्च कृतम् । दलस्य विश्वासघातेन दुःखितः सः दलत्यागमकरोत् ।
भाजपादलाध्यक्षः अमितशाहः लोकसभानिर्वाचनप्रत्याशिचयनाय गुनाक्षेत्रमागतवान् तदा के.पी.यादवः तं मिलितवान् । दृढतया च उक्तं यत् सः ज्योतिरादित्यविरुद्धं प्रत्याशी भवितुमिच्छति । आश्चर्यचकितेन अमितशाहेन तस्य कारणं पृष्टं तदा तेनोक्तं यत् कोंग्रेसदलाय सः जीवनस्य विंशतिः वर्षाणि अयच्छत् परन्तु कोंग्रेसदलस्य कृते तस्य किमपि महत्त्वं नास्ति । एतस्मिन् समये तेन सह घटिता ’सेल्फी’ घटना अपि श्राविता भावचित्रमपि दर्शितम् । राजेनीतेः चाणक्येन अमितशाहेन क्षणमिदं गृहीतम् । सः तस्य क्षमताम् अनुभूतवान् । मनसा आहतः सैनिकः युद्धं जेतुं शक्नोति इति चिन्तयन् अमितशाहः अपमान-अनलज्वालां अनुभवते तस्मै गुना-आसनस्य चिटिकां दातुं निर्णितवान् । यादवः अपि बहु प्रयत्नं कृतवान् । फलतः सः लक्षाधिकमतैः विजयी अभवत् । ज्योतिरादित्यस्य अहङ्कारेण पीडिताः नैके कार्यकर्तारः सन्ति नैके च प्रसङ्गा सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्