Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभाषायाः प्रचारस्य कार्यं कुर्वता ’संस्कृतभारती’ इति सङ्घटनद्वारा देहल्यां छत्तरपुरमन्दिरपरिसरे अन्ताराष्ट्रिय-संस्कृत-सम्मेलनम् आयोजितमस्ति ।  सम्मेलनेऽस्मिन् अष्टादशदेशानां चतुर्सहस्राधिकाः कार्यकर्तारः समागत्य संस्कृतभाषायाः प्रचारस्य उत्थानस्य च विषये चर्चां करिष्यन्ति । अत्र कनाडा, इंग्लैंड, मारीशस, केन्या, यूएई, कतर, बहरीन, कुवैत, ओमान, सिंगापुर, इंडोनेशिया, आस्ट्रेलिया, रूस, नेपाल, न्यूजीलैंड इत्यादिषु देशेषु समर्पिताः विद्वांसः आगमिष्यन्ति । अस्मिन् विषये स्वास्थ्यमन्त्रिणा डॉ.हर्षवर्धनेन पत्रकारपरिषदि सम्बोधयता उक्तं यत् संस्कृतं सम्पूर्णतया वैज्ञानिकभाषा अस्ति । भारते एककोटिः जनाः संस्कृतपठनपाठने व्यवहारे च दक्षाः सन्ति । संस्कृतभाषायां विज्ञानम् अन्तरिक्षज्ञानं गणना इत्यादिषु विषयेषु व्यापकज्ञानमस्ति । एतेन महाकुम्भेन सम्पूर्णे विश्वे संस्कृतस्य उपयोगितायाः सन्देशः प्रसरिष्यति ।

सम्मेलनेऽस्मिन् प्रदर्शनी महदाकर्षणं भविष्यति । अस्यां प्रदर्शन्यां अर्थस्शास्त्रप्रदर्शनी, पाण्डुलिपीनां प्रदर्शनं, वस्तुप्रदर्शनी, शिलालेखाः, कवीनां जीवनप्रदर्शनं चादयः सन्ति । अस्य सम्मेलनस्य उद्घाटनं नवमे दिनाङ्के राज्यमन्त्रीश्री मुरलीधरन करिष्यति । संस्कृतभारत्याः राष्ट्रियसङ्घटनस्य महामन्त्रिणा श्रीशदेवपुजारीमहोदयेनोक्तं यत् अस्माकं लक्ष्यं विश्वस्य प्रत्येकस्मिन् कोणे संस्कृतभाषायाः प्रचारस्य अस्ति । नानादिग्देशेभ्यः आगताः समर्पिताः कार्यकर्तारः एतस्मिन् विषये चिन्तनं करिष्यन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्