Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्यत्वे प्रचुरमात्रायां ’साइवर-फ्रोड’ द्वारा जनानां वञ्चनं जायमानमस्ति, विशेषत: वृद्धानाम्। भारतीय-अन्वेषणसंस्थया ताइवानदेशसम्बद्धस्य एकस्य बृहत्-अन्ताराष्ट्रिय-साइबर-अपराधि-गणस्य भेदनं कृतम् अस्ति। एते अपराधिनः 'डिजिटल-अरेस्ट' (Digital Arrest) इति नाम्ना जनान् दूरभाष-माध्यमेन भयभीतान् कृत्वा तेभ्यः धनं हरन्ति स्म। अस्मिन् प्रकरणे सुरक्षाबलेन एतावता सप्त प्रमुखाः सदस्याः बद्धाः । प्राथमिक-अन्वेषणे ज्ञातं यत् अनेन गणेन सामान्यजनेभ्यः प्रायः १०० ₹ कोटि-रूप्यकाणां वञ्चनं कृतम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्