Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

होर्मुजजलसन्ध्योः ‘एम/वी जीएफएस गैलेक्सी’ इति पोतम् आक्रम्य ईरानदेशेन अमेरिकायाः व्यापारिकमार्गः अवरुद्धः, येन क्रुद्धस्य अमेरिका-राष्ट्रपति-डोनाल्ड-ट्रम्पस्य आदेशात् सेण्टकॉम-सैन्यदलेन ईरानस्य चत्वारिंशदधिकशतं (१४०) सैन्यकेन्द्राणि ध्वस्तीकृतानि। अस्य प्रतिशोधाय ईरानस्य ‘इस्लामिक रिवोल्यूशनरी गार्ड कॉर्प्स’ (IRGC) दलेन जोर्डनदेशस्थे ‘प्रिंस हसन’ अमेरिका-सैन्यमथके, तथा च संयुक्तअरबअमीरात (UAE)-कुवैत-कतार-बहरीन-ओमानदेशेषु स्थितेषु अमेरिकीयप्रतिष्ठानेषु क्षेपणास्त्रैः ड्रोनयन्त्रैः च तीव्रः विक्षेपः विहितः। अनेन खाडीप्रदेशे पूर्णतया युद्धस्थितिः समुत्पन्ना, सर्वत्र च आपत्कालः प्रख्यापितः। सेण्टकामानुसारं त्रिषु दिनेषु ईरानस्य त्रिशताधिकानि (३००) क्षेपणास्त्र-प्रक्षेपणस्थानानि शस्त्रागाराणि च विनष्टानि, येन तस्य सञ्चारतन्त्रं छिन्नभिन्नं जातम्।
 

अद्यतनवार्ता

भारतम्

विश्वम्