Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भाजपादलस्य राष्ट्रियनेत्रा एल.के.अडवाणीमहोदयेन गुजरातस्य गान्धिनगरजनानां कृते कृतज्ञताज्ञापनं प्रकटीकृतम् । एतस्मिन् लोकसभानिर्वाचने गान्धिनगरस्य प्रत्याशी राष्ट्रियाध्यक्षः अमितशाहः अस्ति । एतत् पूर्वं सततं षट्वारं एल.के.अडवाणी गान्धिनगरात् विजयी भवति । गान्धिनगरस्थानां जनानां कृतज्ञताज्ञापनेन सहैव तेन मोदिने प्रहारात्मकः उपदेशः अपि दत्तः । तेनोक्तं यत् आरम्भतः एव भाजपादलस्य मतेन राजकीयविरोधिनः स्वविरोधिनः न सन्ति। ये जनाः राजनीतिदृष्ट्या सहमताः न भवन्ति ते देशविरोधिनः इति न चिन्तनीयम् । भाजपादलं नागरिकाणां व्यक्तिगत-राजकीयरुचेः स्वतन्त्रतायाः पक्षे अस्ति। प्रथमं देशः, पश्चात् पक्षः अनन्तरं अहम् इति शीर्षकाधारिते लेखे तेन कथितम् विविधता अभिव्यक्तेः स्वतन्त्रता च भारतीयलोकतन्त्रस्य संज्ञानमस्ति। भाजपादलस्य कृते न कोऽपि शत्रुः । यदि वैचारिकमतभेदाः सन्ति तथापि ते राष्ट्रविरोधिनः तु कदापि न । सत्य-राष्ट्र-निष्ठा-लोकतन्त्रैः पक्षस्य विकासः जातः अस्ति। एतस्य मनोभावैः अनुमानं कर्तुं शक्यते यत् मोदिद्वारा विरोधिनः प्रति क्रियमाणस्य आचरणस्य सन्दर्भे प्रहारात्मकोपदेशः तेन दत्तः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्